|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.176. अध्यायः 176
Mahabharata - Drona Parva - Chapter Topics
कर्णघटोत्कचयोर्युद्धम्॥ 1 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-176-0x(4733)(53064)
यत्तद्वैकर्तनः कर्णो राक्षसश्च घटोत्कचः।
निशीथे समसज्जेतां तद्युद्धमभवत्कथम्॥ 7-176-1(53065)
कीदृशं चाभवद्रूपं तस्य घोरस्य रक्षसः।
येन वैकर्तनः कर्णः सङ्ग्रामे तेन निर्जितः॥ 7-176-2(53066)
रथश्च कीदृशस्तस्य मायाः सर्वायुधानि च।
किम्प्रमाणा हयास्तस्य रथकेतुर्धनुस्तथा॥ 7-176-3(53067)
कीदृशं वर्म चैवास्य शिरस्त्राणं च कीदृशम्।
पृष्टस्त्वमेतदाचक्ष्व कुशलो ह्यसि सञ्जय॥ 7-176-4(53068)
सञ्जय उवाच। 7-176-5x(4734)
लोहितोक्षो महाकायस्ताम्रास्यो निम्नितोदरः।
ऊर्ध्वरोमा हरिश्मश्रुः शङ्कुकर्णो महाहनुः॥ 7-176-5(53069)
आकर्णदारितास्यश्च तीक्ष्णदंष्ट्रः करालवान्।
सुदीर्घताम्रजिह्वोष्ठो लम्बभ्रूः स्थूलनासिकः॥ 7-176-6(53070)
नीलाङ्गो लोहितग्रीवो गिरिवर्ष्मा भयङ्करः।
महाकायो महाबाहुर्महाशीर्षो महाबलः॥ 7-176-7(53071)
विकृतः परुषस्पर्शो विकचोद्वृद्धपिण्डकः।
स्थूलस्फिग्गूढनाभिश्च शिथिलोपचयो महान्॥ 7-176-8(53072)
तथैव हस्ताभरणी महामायोऽङ्गदी तथा।
उरसाऽधारयन्निष्कमग्निमालां यथाऽचलः॥ 7-176-9(53073)
तस्य हेममयं चित्रं बहुरूपाङ्गशभितम्।
तोरणप्रतिमं शुभ्रं किरीटं मूर्ध्न्यशोभत॥ 7-176-10(53074)
कुण्डले बालसूर्याभे मालां हेममयीं शुभाम्।
धारयन्विपुलं कांस्यं कवचं च महाप्रभम्।
ताराजालनिभं राजन्पूर्णचन्द्रसमप्रभम्॥ 7-176-11(53075)
कण्ठसूत्रं महच्चापि तपनीयमधारयत्।
स तेन विभ्राजत वै सविद्युदिव तोयदः॥ 7-176-12(53076)
किङ्किणीशतनिर्घोपं रक्तध्वजपताकिनम्।
ऋक्षचर्मावनद्वाङ्गं नल्वमात्रं महारथम्॥ 7-176-13(53077)
सर्वायुधवरोपेतमास्थितं ध्वजमालिनम्।
अष्टचक्रसमायुक्तं मेघगम्भीरनिःस्वनम्॥ 7-176-14(53078)
मत्तमातङ्गसङ्काशा लोहिताक्षा विभीपणाः।
कालवर्णासमायुक्ता बलवन्तः शतं हयाः॥ 7-176-15(53079)
वहन्तो राक्षसं घोरं वालवन्तो जितश्रमाः।
विपुलाभिः सटाभिस्ते हेषमाणा मुहुर्मुहुः॥ 7-176-16(53080)
मुखैर्नानाविधाकारैर्वगवन्तो हयोत्तमाः।
रथेऽस्य युक्ता गकर्जन्तोऽवहंस्ते राक्षसाधिपम्॥ 7-176-17(53081)
राक्षसोऽस्य विरूपाक्षः सूतो दीप्तास्यकुण्डलः।
`घोररूपो महाकायः करालो विकृताननः'।
रश्मिभिः सूर्यरश्म्याह्वैः सञ्जग्राह हयान्रणे॥ 7-176-18(53082)
स तेन सहितस्तस्थावरुणेन यथा रविः।
संसक्त इव चाभ्रेण यथाऽद्रिर्महता महान्॥ 7-176-19(53083)
दिवस्पृक्सुमहान्केतुः स्यन्दनेऽस्य समुच्छ्रितः।
रक्तोत्तमाङ्गः क्रव्यादो गृध्रः परमभीषणः॥ 7-176-20(53084)
वासवाशनिनिर्घोषं दृढज्यमतिविक्षिपन्।
व्यक्तं किष्कुपरीणाहं द्वादशारत्नि कार्मुकम्॥ 7-176-21(53085)
रथाक्षमात्रैरिपुभिः सर्वाः प्रच्छादयन्दिशः।
तस्यां वीरापहारिण्यां निशायां कर्णमभ्ययात्॥ 7-176-22(53086)
तस्य विक्षिपतश्चापं रथे विष्टभ्य तिष्ठतः।
अश्रूयत धनुर्घोषो विस्फूर्जितमिवाशनेः॥ 7-176-23(53087)
तेन वित्रास्यमानानि तव सैन्यानि भारत।
समकम्पन्त सर्वाणि सिन्धोरिव महोर्मयः॥ 7-176-24(53088)
तमापतन्तं सम्प्रेक्ष्य विरूपाक्षं विभीषणम्।
उत्स्मयन्निव राधेयस्त्वरमाणोऽभ्यवारयत्॥ 7-176-25(53089)
ततः कर्णोऽभ्ययादेनमस्यन्नस्यन्तमन्तिकात्।
मातङ्ग इव मातङ्गं यूथर्षभमिवर्षभः॥ 7-176-26(53090)
स सन्निपातस्तुमुलस्तयोरासीद्विशाम्पते।
कर्णराक्षसयो राजन्निन्द्रशम्बरयोरिव॥ 7-176-27(53091)
तौ प्रगृह्य महावेगे धनुषी भीमनिःस्वने।
प्राच्छादयेतामन्योन्यं तक्षमाणौ महेषुभिः॥ 7-176-28(53092)
ततः पूर्णायतोत्सृष्टैरिषुभिर्नतपर्वभिः।
न्यवारयेतामन्योन्यं कांस्ये निर्भिद्य वर्मणी॥ 7-176-29(53093)
तौ नखैरिव शार्दूलौ दन्तैरिव महाद्विपौ।
रथशक्तिभिरन्योन्यं विशिखैश्च ततक्षतुः॥ 7-176-30(53094)
सञ्छिन्दन्तौ च गात्राणि सन्दधानौ च सायकान्।
दहन्तौ च शरोल्काभिर्दुष्प्रेक्ष्यौ च बभूवतुः॥ 7-176-31(53095)
तौ तु विक्षतसर्वाङ्गौ रुधिरौघपरिप्लुतौ।
विभ्राजेतां यथा वारि स्रवन्तौ गैरिकाचलौ॥ 7-176-32(53096)
तौ शराग्रविनुन्नाङ्गौ निर्भिन्दन्तौ परस्परम्।
नाकम्पयेतामन्योन्यं यतमानौ महाद्युती॥ 7-176-33(53097)
तत्प्रवृत्तं निशायुद्धं चिरं सममिवाभवत्।
प्राणयोर्दीव्यतो राजन्कर्णराक्षसयोर्मृधे॥ 7-176-34(53098)
तस्य सन्दधतस्तीक्ष्णाञ्छरांश्चासक्तमस्यतः।
धनुर्घोषेण वित्रस्ताः स्वे परे च तदाऽभवन्॥ 7-176-35(53099)
घटोत्कचं यदा कर्णो विशेषयति नो नृप।
ततः प्रादुष्करोद्दिव्यमस्त्रमस्त्रविदां वरः॥ 7-176-36(53100)
कर्णेन सन्धितं दृष्ट्वा दिव्यमस्त्रं घटोत्कचः।
प्रादुश्चक्रे महामायां राक्षसीं पाण्डुनन्दनः॥ 7-176-37(53101)
शूलमुद्गरधारिण्या शैलपादपहस्तया।
रक्षसां घोररूपाणां महत्या सेनया वृतः॥ 7-176-38(53102)
तमुद्यतमहाचापं दृष्ट्वा ते व्यथिता नृपाः।
भूतान्तकमिवायान्तं कालदण्डोग्रधारिणम्॥ 7-176-39(53103)
घटोत्कचप्रयुक्तेन सिंहनादेन भीषिताः।
प्रसुस्रुवुर्गजा मूत्रं विव्यधुश्च नरा भृशम्॥ 7-176-40(53104)
ततोऽश्मवृष्टिरत्युग्रा महत्यासीत्समन्ततः।
अर्धरात्रेऽधिकबलैर्विमुक्ता रक्षसां बलैः॥ 7-176-41(53105)
आयसानि च चक्राणि भुशुण़्ड्यः शक्तितोमराः।
पतन्त्यविरलाः शूलाः शतघ्न्यः पट्टसास्तथा॥ 7-176-42(53106)
तदुग्रमतिरौद्रं च दृष्ट्वा युद्धं नराधिप।
पुत्राश्च तव योधाश्च व्यथिता विप्रदुद्रुवुः॥ 7-176-43(53107)
तत्रैकोऽस्तबलश्लाघी कर्णो मानी न विव्यथे।
व्यधमच्च शरैर्मायां तां घटोत्कचनिर्मिताम्॥ 7-176-44(53108)
मायायां तु प्रहीणायाममर्षाच्च घटोत्कचः।
विससर्ज शरान्धोरान्सूत पुत्रं त आविशन्॥ 7-176-45(53109)
ततस्ते रुधिराभ्यक्ता भित्त्वा कर्णं महाहवे।
विविशुर्धरणीं बाणाः सङ्क्रुद्धा इव पन्नगाः॥ 7-176-46(53110)
सूतपुत्रस्तु सङ्क्रद्धो लघुहस्तः प्रतापवान्।
घटोत्कचमतिक्रम्य बिभेद दशभिः शरैः॥ 7-176-47(53111)
घटोत्कचो विनिर्भिन्नः सूतपुत्रेण मर्मसु।
चक्रं दिव्यं सहस्रारमगृह्णाद्व्यथितो भृशम्॥ 7-176-48(53112)
क्षुरान्तं बालसूर्याभं मणिरत्नविभूषितम्।
चिक्षेपाधिरथेः क्रुद्धो भैमसेनिर्जिघांसया॥ 7-176-49(53113)
प्रविद्वमतिवेगेन विक्षिप्तं कर्णसायकैः।
अभाग्यस्येव सङ्कल्पस्तन्मोघमपतद्भुवि॥ 7-176-50(53114)
घटोत्कचस्तु सङ्क्रुद्धो दृष्ट्वा चक्रं निपातितम्।
कर्णं प्राच्छादयद्बाणैः स्वर्भानुरिव भास्करम्॥ 7-176-51(53115)
सूतपुत्रस्त्वसम्भ्रान्तो रुद्रोपेन्द्रेन्द्रविक्रमः।
घटोत्कचरथं तूर्णं छादयामास पत्रिभिः॥ 7-176-52(53116)
घटोत्कचेन क्रुद्धेन गदा हेमाङ्गदा तदा।
क्षिप्ता भ्राम्य शरैः साऽपि कर्णेनाभ्याहताऽपतत्॥ 7-176-53(53117)
ततोऽन्तरिक्षमुत्पत्य कालमेघ इवोन्नदन्।
प्रववर्ष महाकायो द्रुमवर्षं नभस्तलात्॥ 7-176-54(53118)
ततो मायाविनं कर्णो भीमसेनसुतं दिवि।
मार्गणैरभिविव्याध घनं सूर्य इवांशुभिः॥ 7-176-55(53119)
तस्य सर्वान्हयान्हत्वा सञ्छिद्य शतधा रथम्।
अभ्यवर्षच्छरैः कर्णः पर्जन्य इव वृष्टिमान्॥ 7-176-56(53120)
न चास्यासीदनिर्भिन्नं गात्रे द्व्यङ्गुलमन्तरम्।
सोऽदृश्यत मुहूर्तेन श्वाविच्छललितो यथा॥ 7-176-57(53121)
न हयान्न रथं तस्य न ध्वजं न घटोत्कचम्।
दृष्टवन्तः स्म समरे शरौघैरभिसंवृतम्॥ 7-176-58(53122)
स तु कर्णस्य तद्दिव्यमस्त्रमस्त्रेण शातयन्।
मायायुद्धेन मायावी सूतपुत्रमयोधयत्॥ 7-176-59(53123)
सोऽयोधयत्तदा कर्णं मायया लाघवेन च।
अलक्ष्यमाणानि दिवि शरजालानि चापतन्॥ 7-176-60(53124)
भैमसेनिर्महामायो मायया कुरुसत्तम।
विचचार महाकायो मोहयन्निव भारत॥ 7-176-61(53125)
स तु कृत्वा विरूपाणि वदनान्यशुभानि च।
अग्रसत्सूतपुत्रस्य दिव्यान्यस्त्राणि मायया॥ 7-176-62(53126)
पुनश्चापि महाकायः सञ्छिन्नः शतधा रणे।
गतसत्वो निरुत्साहः पतितः खाद्व्यदृश्यत॥ 7-176-63(53127)
तं हतं मन्यमानाः स्म प्राणदन्कुरुपुङ्गवाः।
अथ देहैर्नवैरन्यैर्दिक्षु सर्वास्वदृश्यत॥ 7-176-64(53128)
पुनश्चापि महाकायः शतशीर्षः शतोदरः।
व्यदृश्यत महाबाहुर्मैनाक इव पर्वतः॥ 7-176-65(53129)
अङ्गुष्ठमात्रो भूत्वा च पुनरेव स राक्षसः।
सागरोर्मिरिवोद्वूतस्तिर्यगूर्ध्वमवर्तत॥ 7-176-66(53130)
वसुधां दारयित्वा च पुनरप्यु न्यमज्जत।
अदृश्यत तदा तत्र पुनरुन्मज्जितोऽन्यतः॥ 7-176-67(53131)
सोऽवतीर्य पुनस्तस्थौ रथे हेमपरिष्कृते।
क्षितिं खं च दिशश्चैव माययाऽभ्येत्य दंशितः॥ 7-176-68(53132)
गत्वा कर्णरथाभ्याशं व्यचरत्कुण्डलाननः।
प्राह वाक्यमसम्भ्रान्तः सूतपुत्रं विशाम्पते॥ 7-176-69(53133)
तिष्ठेदानीं क्व मे जीवन्सूतपुत्र गमिष्यसि।
युद्धश्रद्धामहं तेऽद्य विनेष्यामि रमाजिरे॥ 7-176-70(53134)
इत्युक्त्वा रोषताम्राक्षं रक्षः क्रूरपराक्रमम्।
उत्पपातान्तरिक्षं च जहास च सुविस्तरम्।
कर्णमभ्यहनच्चैव गजेन्द्रमिव केसरी॥ 7-176-71(53135)
रथाक्षमात्रेरिषुभिरभ्यवर्षद्धटोत्कचः। 7-176-72(53136)
शरवृष्टिं च तां कर्णो दूरात्प्राप्तामशातयत्॥ 7-176-73(53137)
दृष्ट्वा च विहतां मायां कर्णेन भरतर्षभ।
घटोत्कचस्ततो मायां ससर्जान्तर्हितः पुनः॥ 7-176-74(53138)
सोऽभवद्गिरिरत्युच्चः शिखरैस्तरुसङ्कटैः।
शूलप्रासासिमुसलजलप्रस्रवणो महान्॥ 7-176-75(53139)
तमञ्जनचयप्रख्यं कर्णो दृष्ट्वा महीधरम्।
प्रपातैरायुधान्युग्राण्युद्वहन्तं न चुक्षुभे॥ 7-176-76(53140)
स्मयन्निव ततः कर्णो दिव्यमस्त्रमुदैरयत्।
ततः सोऽस्रेण शैलेन्द्रो विक्षिप्तो वै व्यनश्यत॥ 7-176-77(53141)
ततः स तोयदो भूत्वा नीलः सेन्द्रायुधो दिवि।
अश्मवृष्टिभिरत्युग्रः सूतपुत्रमवाकिरत्॥ 7-176-78(53142)
अथ सन्धाय वायव्यमस्त्रमस्त्रविदां वरः।
व्यधमत्कालमेघं तं कर्णो वैकर्तनो वृषः॥ 7-176-79(53143)
स मार्गणगणैः कर्णो दिशः प्रच्छाद्य सर्वशः।
जघानास्त्रं महाराज घटोत्कचसमीरितम्॥ 7-176-80(53144)
ततः प्रहस्य समरे भैमसेनिर्महाबलः।
प्रादुश्चक्रे महामायां कर्णं प्रति महारथम्॥ 7-176-81(53145)
स दृष्ट्वा पुनरायान्तं रथेन रथिनां वरम्।
घटोत्कचमसम्भ्रान्तं राक्षसैर्बहुभिर्वृतम्॥ 7-176-82(53146)
सिंहशार्दूलसदृशैर्मत्तमातङ्गविक्रमैः।
गजस्थैश्च रथस्थैश्च वाजिपृष्ठगतैस्तथा। 7-176-82(53147)
नानाशस्त्रधरैर्घोरैर्नानाकवचभूषणैः॥
वृतं घटोत्कचं क्रूरैर्मरुद्भिरिव वासवम्। 7-176-83(53148)
दृष्ट्वा कर्णो महेष्वासो योधयामास राक्षसम्॥
घटोत्कचस्ततः कर्णं विद्धा पञ्चभिराशुगैः। 7-176-84(53149)
ननाद भैरवं नादं भीषयन्सर्वपार्थिवान्॥
भूयश्चाञ्जलिकेनाथ स मार्गणगणं महत्। 7-176-85(53150)
कर्णहस्तस्थितं चापं चिच्छेदाशु घटोत्कचः॥
अथान्यद्धनुरादाय दृढं भारसहं महत्। 7-176-86(53151)
विचकर्ष बलात्कर्ण इन्द्रायुधमिवोच्छ्रितम्॥
ततः कर्णो महाराज प्रेषयामास सायकान्। 7-176-87(53152)
सुवर्णपुङ्खाञ्छत्रुघ्नान्खेचरान्राक्षसान्प्रति॥
तद्बाणैरर्दितं यूथं रक्षसां पीनवक्षसाम्। 7-176-88(53153)
सिंहेनेवार्दितं वन्यं गजानामाकुलं कुलम्॥
विधम्य राक्षसान्बाणैः साश्वसूतगजान्विभुः। 7-176-89(53154)
ददाह भगवान्वह्निर्भूतानीव युगक्षये॥
स हत्वा राक्षसीं सेनां शुशुभे सूतनन्दनः। 7-176-90(53155)
पुरेव त्रिपुरं दग्ध्वा दिवि देवो महेश्वरः॥
तेषु राजसहस्रेषु पाण्डवेयेषु मारिष। 7-176-91(53156)
नैनं निरीक्षितुमपि कश्चिच्छक्नोति पार्थिव॥
ऋते घटोत्कचाद्राजन्राक्षसेन्द्रान्महाबलात्। 7-176-92(53157)
भीमवीर्यबलोपेतात्क्रुद्ध्द्वैवस्वतादिव॥
तस्य क्रुद्धस्य नेत्राभ्यां पावकः समजायत। 7-176-93(53158)
महोल्काभ्यां यथा राजन्सार्जिषः स्नेहबिन्दवः॥
तलं तलेन संहत्य सन्दश्य दशनच्छदम्। 7-176-94(53159)
रथमास्थाय च पुनर्मायया निर्मितं तदा॥
युक्तं गजनिभैर्वाहैः पिशाचवदनैः खरैः। 7-176-95(53160)
स सूतमब्रवीत्क्रुद्धः सूतपुत्राय मां वह॥ 7-176-96(53161)
स ययौ घोररूपेण रथेन रथिनां वरः।
द्वैरथं सूतपुत्रेण पुनरेव विशाम्पते॥
स चिक्षेप पुनः क्रुद्धः सुतपुत्राय राक्षसः। 7-176-97(53162)
अष्टचक्रां महाघोरामशनिं रुद्रनिर्मिताम्॥ 7-176-98(53163)
द्वियोजनसमुत्सेधां योजनायामविस्तराम्।
आयसीं निचितां शूलैः कदम्बमिव केशरैः॥ 7-176-99(53164)
तामवप्लुत्य जग्राह कर्णो न्यस्य महद्धनुः।
चिक्षेप चैनां तस्यैव स्यन्दनात्सोऽवपुप्लुवे॥ 7-176-100(53165)
साश्वसूतध्वजं यानं भस्म कृत्वा महाप्रभा।
विवेश वसुधां भित्त्वा सुरास्तत्र विसिस्मियुः॥ 7-176-101(53166)
कर्णं तु सर्वभूतानि पूजयामासुरञ्जसा।
यदप्लुत्य जग्राह देवसृष्टां महाशनिम्॥ 7-176-102(53167)
एवं कृत्वा रणे कर्ण आरुरोह रथं पुनः।
ततो मुमोच नाराचान्सूतपुत्रः परन्तपः॥ 7-176-103(53168)
अशक्यं कर्तुमन्येन सर्वभूतेषु मानद।
यदकार्षीत्तदा कर्णः सङ्ग्रामे भीमदर्शने॥ 7-176-104(53169)
स हन्यमानो नाराचैर्धाराभिरिव पर्वतः।
गन्धर्वनगराकारः पुनरन्तरधीयत॥ 7-176-105(53170)
एवं स वै महाकायो मायया लाघवेन च।
अस्त्राणि तानि दिव्यानि जघान रिपुसूदनः॥ 7-176-106(53171)
निहन्यमानेष्वस्त्रेषु मायया तेन रक्षसा।
असम्भ्रान्तस्तदा कर्णस्तद्रक्षः प्रत्ययुध्यत॥ 7-176-107(53172)
ततः क्रुद्धो महाराज भैमसेनिर्महाबलः।
चकार बहुधाऽऽत्मानं भीषयाणो महारथान्॥ 7-176-108(53173)
ततो दिग्भ्यः समापेतुः सिंहव्याघ्रतरक्षवः।
अग्निजिह्वाश्च भुजगा विहगाश्चाप्ययोमुखाः॥ 7-176-109(53174)
स कीर्यमाणो विशिखैः कर्णचापच्युतैः शरैः।
नागराडिव दुष्प्रेक्ष्यस्तत्रैवान्तरधीयत॥ 7-176-110(53175)
राक्षसाश्च पिशाचाश्च यातुधानास्तथैव च।
शालावृकाश्च बहवो वृकाश्च विकृताननाः॥ 7-176-111(53176)
ते कर्णं क्षपयिष्यन्तः सर्वतः समुपाद्रवन्।
अथैनं वाग्भिरुग्राभिस्त्रासयाञ्चिक्रिरे तदा॥ 7-176-112(53177)
उद्यतैर्बहुभिर्घोरैरायुधैः शोणितोक्षितैः।
तेषामनेकैरेकैकं कर्णो विव्याध सायकैः॥ 7-176-113(53178)
प्रतिहत्य तु तां मायां दिव्येनास्त्रेण राक्षसीम्।
आजघान हयानस्य शरैः सन्नतपर्वभिः॥ 7-176-114(53179)
ते भग्ना विक्षताङ्गाश्च भिन्नपृष्ठाश्च सायकैः।
वसुधामन्वपद्यन्त पश्यतस्तस्य रक्षसः॥ 7-176-115(53180)
स भग्नमायो हैडिम्बिः कर्णं वैकर्तनं तदा।
एष ते विदधे मृत्युमित्युक्त्वान्तरधीयत॥ ॥ 7-176-116(53181)
इति श्रीमन्महाभारते द्रोणपर्वणि घटोत्कचवधपर्वणि चतुर्दशरात्रियुद्धे षट्सप्तत्यधिकशततमोऽध्यायः॥ 176 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-176-5 निम्नितोदरः निम्नितं पृष्ठवंशसंलग्नमशनहीनस्येवोदरं यस्येत्यर्थः॥ 5-176-6 करालवान् उन्नतदन्तचतुष्कः॥ 5-176-8 विकचश्चासावुद्वृपिण्डो दृढाङ्गः को मूर्धा यस्य स विकचोद्वृद्धपिण्डकः। शिथिलोपचयः स्फिक्प्रदेशे एव शिथिलः श्लथ उपचयो वृद्धिर्यस्य॥ 5-176-13 नल्वो हस्तचतुःशतम्॥ 5-176-29 विष्कुर्हस्तस्तन्मितः परीणाहो विस्तारो यस्य। अरत्निर्निरष्टमांशः करः॥ 5-176-30 रथः स्यन्दनदेहयोरिति कोशाद्देहानुकूलशक्तिमद्भिरिति वा॥ 5-176-35 तस्य घटोत्कचस्या। आसक्तमन्योन्यसंसक्तं यथास्यात्तथाशरानस्यतः॥ 5-176-94 उल्काभ्यां सजर्रसमिश्रोल्मुकाभ्याम्। ततो हि दीप्तस्य सर्जरसस्य कणाः सस्नेहत्वात्सार्चिष एव पतन्तीति प्रसिद्धम्॥ 5-176-176 षट्सप्तत्यधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|